|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.135. अध्यायः 135
Mahabharata - Adi Parva - Chapter Topics
पाण्डवैः सह ऋषीणां हस्तिनापुरगमनम्॥ 1 ॥ पाण्डुवृत्तान्तकथनपूर्वकं पाण्डवान्भीष्माय समर्प्य ऋषीणां प्रतिनिवर्तनम्॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-135-0x(809)(6047)
पाण्डोरुपरमं दृष्ट्वा देवकल्पा महर्षयः।
ततो मन्त्रविदः सर्वे मन्त्रयांचक्रिरे मिथः॥ 1-135-1(6048)
तापसा ऊचुः। 1-135-2x(810)
हित्वा राज्यं च राष्ट्रं च स महात्मा महायशाः।
अस्मिंस्थाने तपस्तप्त्वा तापसाञ्शरणं गतः॥ 1-135-2(6049)
स जातमात्रान्पुत्रांश्च दारांश्च भवतामिह।
प्रादायोपनिधिं राजा पाण्डुः स्वर्गमितो गतः॥ 1-135-3(6050)
तस्येमानात्मजान्देहं भार्यां च सुमहात्मनः।
स्वराष्ट्रं गृह्य गच्छामो धर्म एष हि नः स्मृतः॥ 1-135-4(6051)
वैशम्पायन उवाच। 1-135-5x(811)
ते परस्परमामन्त्र्य देवकल्पा महर्षयः।
पाण्डोः पुत्रान्पुरस्कृत्य नगरं नागसाह्वयम्॥ 1-135-5(6052)
उदारमनसः सिद्धा गमने चक्रिरे मनः।
भीष्माय पण्डवान्दातुं धृतराष्ट्राय चैव हि॥ 1-135-6(6053)
तस्मिन्नेव क्षणे सर्वे तानादाय प्रतस्थिरे।
पाण्डोर्दारांश्च पुत्रांश्च शरीरे ते च तापसाः॥ 1-135-7(6054)
सुखिनी सा पुरा भूत्वा सततं पुत्रवत्सला।
प्रपन्ना दीर्घमध्वानं संक्षिप्तं तदमन्यत॥ 1-135-8(6055)
सा त्वदीर्घेण कालेन संप्राप्ता कुरुजाङ्गलम्।
वर्धमानपुरद्वारमाससाद यशस्विनी॥ 1-135-9(6056)
द्वारिणं तापसा ऊचू राजानं च प्रकाशय।
ते तु गत्वा क्षणेनैव सभायां विनिवेदिताः॥ 1-135-10(6057)
तं चारणसहस्राणां मुनीनामागमं तदा।
श्रुत्वा नागपुरे नॄणां विस्मयः समपद्यत॥ 1-135-11(6058)
मुहूर्तोदित आदित्ये सर्वे बालपुरस्कृताः।
सदारास्तापसान्द्रष्टुं निर्ययुः पुरवासिनः॥ 1-135-12(6059)
स्त्रीसङ्घाः क्षत्रसङ्घाश्च यानसङ्घसमास्थिताः।
ब्राह्मणैः सह निर्जग्मुर्ब्राह्मणानां च योषितः॥ 1-135-13(6060)
तथा विट्शूद्रसङ्घानां महान्यतिकरोऽभवत्।
न कश्चिदकरोदीर्ष्यामभवन्धर्मबुद्धयः॥ 1-135-14(6061)
तथा भीष्मः शान्तनवः सोमदत्तो।ञथ बाह्लिकः।
प्रज्ञाचक्षुश्च राजर्षिः क्षत्ता च विदुरः स्वयम्॥ 1-135-15(6062)
सा च सत्यवती देवी कौसल्या च यशस्विनी।
राजदारैः परिवृता गान्धारी चापि निर्ययौ॥ 1-135-16(6063)
धृतराष्ट्रस्य दायादा दुर्योधनपुरोगमाः।
भूषिता भूषणैश्चित्रैः शतसङ्ख्या विनिर्ययुः॥ 1-135-17(6064)
तान्महर्षिगणान्दृष्ट्वा शिरोभिरभिवाद्य च।
उपोपविविशुः सर्वे कौरव्याः सपुरोहिताः॥ 1-135-18(6065)
तथैव शिरसा भूमावभिवाद्य प्रणम्य च।
उपोपविविशुः सर्वे पौरजानपदा अपि॥ 1-135-19(6066)
तमकूजमभिज्ञाय जनौघं सर्वशस्तदा।
पूजयित्वा यथान्यायं पाद्येनार्घ्येण च प्रभो॥ 1-135-20(6067)
भीष्मो राज्यं च राष्ट्रं च महर्षिभ्यो न्यवेदयत्।
तेषामथो वृद्धतमः प्रत्युत्थाय जटाजिनी।
ऋषीणां मतमाज्ञाय महर्षिरिदमब्रवीत्॥ 1-135-21(6068)
यः स कौरव्यदायादः पाण्डुर्नाम नराधिपः।
कामभोगान्परित्यज्य शतशृङ्गमितो गतः॥ 1-135-22(6069)
`राजा भोगान्परित्यज्य तपस्वी संबभूव ह।
स यथोक्तं तपस्तेपे पत्रमूलफलाशनः॥ 1-135-23(6070)
पत्नीभ्यां सह धर्मात्मा संचित्कालमतन्द्रितः।
तेन वृत्तसमाचारैस्तपसा च तपस्विनः॥ 1-135-24(6071)
तोषितास्तापसास्तत्र शतशृङ्गनिवासिनः।
स्वर्गलोकं गन्तुकामं तापसाः संनिवार्य तम्॥ 1-135-25(6072)
उद्यन्तं सह पत्नीभ्यां विप्रा वचनमब्रुवन्।
अनपत्यस्य राजेन्द्र पुण्या लोका न सन्ति ते॥ 1-135-26(6073)
तस्माद्धर्मं च वायुं च महेन्द्रं च तथाऽश्विनौ।
आराधयस्व राजेन्द्र पत्नीभ्यां सह देवताः॥ 1-135-27(6074)
प्रीताः पुत्रान्प्रदास्यन्ति ऋणमुक्तो भविष्यसि।
तपसा दिव्यचक्षुष्ट्वात्पश्यामस्ते तथा सुतान्॥ 1-135-28(6075)
अस्माकं वचनं श्रुत्वा देवानाराधयत्तदा।'
ब्रह्मचर्यव्रतस्थस्य तस्य दिव्येन हेतुना॥ 1-135-29(6076)
साक्षाद्धर्मादयं पुत्रस्तत्र जातो युधिष्ठिरः।
तथैनं बलिनां श्रेष्ठं तस्य राज्ञो महात्मनः॥ 1-135-30(6077)
मातरिश्वा ददौ पुत्रं भीमं नाम महाबलम्।
पुरन्दरादयं जज्ञे कुन्त्यां सत्यपराक्रमः॥ 1-135-31(6078)
`अस्मिञ्जाते महेष्वासे पृथामिन्द्रस्तदाऽब्रवीत्।
मत्प्रसादादयं जातः कुन्ति सत्यपराक्रमः॥ 1-135-32(6079)
अजेयानपि जेताऽरीन्देवतादीन्न संशयः।'
यस्य कीर्तिर्महेष्वासान्सर्वानभिभविष्यति॥ 1-135-33(6080)
`युधिष्ठिरो राजसूयं भ्रातृवीर्यादवाप्स्यति।
एष जेता मनुष्यांश्च सर्वान्गन्धर्वराक्षसान्॥ 1-135-34(6081)
एष दुर्योधनादीनां कौरवाणां च जेष्यति।
वीरस्यैतस्य विक्रान्तैर्धर्मपुत्रो युधिष्ठिरः॥ 1-135-35(6082)
यक्ष्यते राजसूयाद्यैर्धर्म एव परः सदा।'
यौ तु माद्री महेष्वासावसूत पुरुषोत्तमौ॥ 1-135-36(6083)
अश्विभ्यां पुरुषव्याघ्राविमौ तावपि तिष्ठतः।
`नकुलः सहदेवश्च तावप्यमिततेजसौ॥' 1-135-37(6084)
चरता धर्मनित्येन वनवासं यशस्विना।
एष पैतामहो वंशः पाण्डुना पुनरुद्धृतः॥ 1-135-38(6085)
पुत्राणां जन्म वृद्धिं च वैदिकाध्ययनानि च।
पश्यन्तः सततं पाण्डोः परां प्रीतिमवाप्स्यथ॥ 1-135-39(6086)
वर्तमानः सतां वृत्ते पुत्रलाभमवाप च।
पितृलोकं गतः पाण्डुरितः सप्तदशेऽहनि॥ 1-135-40(6087)
तं चितागतमाज्ञाय वैश्वानरमुखे हुतम्।
प्रविष्टा पावकं माद्री हित्वा जीवितमात्मनः॥ 1-135-41(6088)
सा गता सह तेनैव पतिलोकमनुव्रता।
तस्यास्तस्य च यत्कार्यं क्रियतां तदनन्तरम्॥' 1-135-42(6089)
पृथां च शरणं प्राप्तां पाण्डवांश्च यशस्विनः।
यथावदनुमन्यन्तां धर्मो ह्येष सनातनः॥ 1-135-43(6090)
इमे तयोः शरीरे द्वे पुत्राश्चेमे तयोर्वराः।
क्रियाभिरनुगृह्यन्तां सह मात्रा परंतपाः॥ 1-135-44(6091)
प्रेतकार्ये निवृत्ते तु पितृमेधं महायशाः।
लभतां सर्वधर्मज्ञः पाण्डुः कुरुकुलोद्वहः॥ 1-135-45(6092)
वैशम्पायन उवाच। 1-135-46x(812)
एवमुक्त्वा कुरून्सर्वान्कुरूणामेव पश्यताम्।
क्षणेनान्तर्हिताः सर्वे तापसा गुह्यकैः सह॥ 1-135-46(6093)
गन्धर्वनगराकारं तथैवान्तर्हितं पुनः।
ऋषिसिद्धगणं दृष्ट्वा विस्मयं ते परं ययुः॥ ॥ 1-135-47(6094)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पञ्चत्रिंशदधिकशततमोऽध्यायः॥ 135 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-135-4 देहं देहयोरस्थीनि॥ 1-135-8 तद्गमनं संक्षिप्तममन्यत मुनीनां योगप्रभावात् स्वदेशगमनौत्कण्ठ्याद्वा॥ 1-135-9 वर्धमानपुरद्वारं मुख्यद्वारम्॥ 1-135-11 आरण्यानां सहस्रसंख्यानां मुनीनां चेति योज्यम्॥ 1-135-14 व्यतिकरः संघर्षः॥ 1-135-20 अकूजं निःशब्दम्॥ 1-135-45 प्रेतकार्ये सपण्डीकरणान्ते। पितृमेधं यज्ञविशेषम्। वृषोत्सर्गादिकं वा॥ 1-135-47 गन्धर्वनगरं खपुरम्॥ पञ्चत्रिंशदधिकशततमोऽध्यायः॥ 135 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|